श्रीजिनेन्द्रगुणसंस्तुति श्रीपात्रकेसरिस्वामि

मतिः श्रुतमथवावधिश्च सहजं प्रमाणं हि तेततः स्वयमबोधि मोक्षपदवीं स्वयम्भूर्भवान् ।न चैतदिह दिव्यचक्षुरधुनेक्ष्यतेऽस्मादृशांयथा सुकृतकर्मणां सकलराज्यलक्ष्म्यादयः ॥2॥

तपः परमुपश्चितस्य भवतोऽभवत्केवलंसमस्तविषयं निरक्षमपुनश्च्युति स्वात्मजम् ।निरावरणक्रमं व्यतिकरादपेतात्मकंतदेव पुरुषार्थसारमभिसम्मतं योगिनाम् ॥4॥

सुरेन्द्रपरिकल्पितं बृहदनर्घ्यसिंहासनंतथाऽऽतपनिवारणत्रयमथोल्लसच्चामरम् ।वशं च भुवनत्रयं निरुपमा च निःसंगतान संगतमिदं द्वयं त्वयि तथाऽपि संगच्छते ॥6॥

ददास्यनुपमं सुखं स्तुतिपरेष्वतुष्यन्नपिक्षिपस्यकुपितोऽपि च ध्रुवमसूयकान्दुर्गतौ ।न चेश ! परमेष्ठिता तव विरुद्ध्यते यद्भवान्न कुप्यति न तुष्यति प्रकृतिमाश्रितो मध्यमाम् ॥8॥

क्षयाच्च रतिरागमोहभयकारिणां कर्मणांकषायरिपुनिर्जयः सकलतत्त्वविद्योदयः ।अनन्यसदृशं सुखं त्रिभुवनाधिपत्यं च तेसुनिश्चितमिदं विभो ! सुमुनिसम्प्रदायादिभिः ॥10॥

न लुब्ध इति गम्यसे सकलसङ्गसंन्यासतोन चाऽपि तव मूढता विगतदोषवाग्यद्भवान् ।अनेकविधरक्षणादसुभृतां न च द्वेषितानिरायुधतयाऽपि च व्यपगतं तथा ते भयम् ॥12॥

सजन्मरणर्षिगोत्रचरणादिनामश्रुते-रनेकपदंसहतिप्रतिनियामसन्दर्शनात् ।फलार्थिपुरुषप्रवृत्तिविनिवृत्तिहेत्वात्मनां-श्रुतेश्च मनुसूत्रवत्पुरुषकर्तृकैव श्रुतिः ॥14॥

न चाऽप्यसदुदीयते न च सदेव वा व्यज्यतेसुराङ्गमदवत्तथा शिखिकलापवैचित्र्यवत् ।क्वचिन्मृतकरन्धनार्थपिठरादिके नेक्ष्यते ।कथं क्षितिजलादिसङ्गगुण इष्यते चेतना ॥16॥

धियान्तरतमार्थवद्गतिसमन्वयान्वीक्षणात्भवेत्खपरिमाणवत्क्वचिदिह प्रतिष्ठा परा ।प्रहाणमपि दृश्यते क्षयवतो निमूलात्क्वचित्तथाऽयमपि युज्यते ज्वलनवत्कषायक्षयः ॥18॥

अशेषपुरुषादितत्त्वगतदेशनाकौशलंत्वदन्यपुरुषान्तरानुचितमाप्ततालाञ्छनम् ।कणादकपिलाक्षपादमुनिशाक्यपुत्रोक्तयःस्खलन्ति हि सुचक्षुरादिपरिनिश्चितार्थेष्वपि ॥20॥

परैरपरिणामकः पुरुष इष्यते सर्वथाप्रमाणविषयादितत्त्वपरिलोपनं स्यात्ततः ।कषायविरहान्न चाऽस्य विनिबन्धनं कर्मभिःकुतश्च परिनिर्वृतिः क्षणिकरूपतायां तथा ॥21॥

मनो विपरिणामकं यदिह संसृतिं चाश्नुतेतदेव च विमुच्यते पुरुषकल्पना स्याद् वृथा ।न चाऽस्य मनसो विकार उपपद्यते सर्वथाध्रुवं तदिति हीष्यते द्वितयवादिता कोपिनि ॥22॥

पृथग्जनमनोनुकूलमपरैः कृतं शासनंसुखेन सुखमाप्यते न तपसेत्यवश्येन्द्रियैः ।प्रतिक्षणविभङ्गुरं सकलसंस्कृतं चेष्यते ।ननु स्वमतलोकलिङ्गपरिनिश्चितैर्व्याहितम् ॥23॥

न सन्ततिरनश्वरी न हि च नश्वरी नो द्विधावनादिवदभाव एव यत इष्यते तत्त्वतः ।वृथैव कृषिदानशीलमुनिवन्दनादिक्रियाःकथञ्चिदविनश्वरी यदि भवेत्प्रतिज्ञाक्षतिः ॥24॥

अनन्यपुरुषोत्तमो मनुजतामतीतोऽपि स-मनुष्य इति शस्यसे त्वमधुना नरैर्बालिशैः ।क्व ते मनुजगर्भिता क्व च विरागसर्वज्ञतान जन्ममरणात्मता हि तव विद्यते तत्त्वतः ॥25॥

स्वमातुरिह यद्यपि प्रभव इष्यते गर्भतोमलैरनुपसंप्लुतो वरसरोजपत्राऽम्बुवत् ।हिताहितविवेकशून्यहृदयो न गर्भेऽप्यभूःकथं तव मनुष्यमात्रसदृशत्वमाशङ्कयते ॥26॥

न मृत्युरपि विद्यते प्रकृतिमानुषस्येव तेमृतस्य परिनिर्वृतिर्न मरणं पुनर्जन्मवत् ।जरा च न हि यद्वपुर्विमलकेवलोत्पत्तितःप्रभृत्यरुजमेकरूपमवतिष्ठते प्राङ्मृतेः ॥27॥

परः कृपणदेवकैः स्वयमसत्सुखैः प्रार्थ्यतेसुखं युवतिसेवनादिपरसन्निधिप्रत्ययम् ।त्वया तु परमात्मना न परतो यतस्ते सुखंव्यपेतपरिणामकं निरुपमं ध्रुवं स्वात्मजम् ॥28॥

पिशाचपरिवारितः पितृवने नरीनृत्यतेक्षरद्रुधिरभीषणद्विरदकृत्तिहेलापटः ।हरो हसति चायतं कहकहाट्टहासोल्बणंकथं परमदेवतेति परिपूज्यते पण्डितैः ॥29॥

मुखेन किल दक्षिणेन पृथुनाऽखिलप्राणिनांसमत्ति शवपूतिमज्जरुधिरान्त्रमांसानि च ।गणैः स्वसदृशैर्भृशं रतिमुपैति रात्रिन्दिवंपिबत्यपि च यः सुरां स कथमाप्तताभाजनम् ॥30॥

अनादिनिधनात्मकं सकलतत्त्वसंबोधनंसमस्तजगदाधिपत्यमथ तस्य संतृप्तता ।तथा विगतदोषता च किल विद्यते यन्मृषासुयुक्तिविरहान्न चाऽस्ति परिशुद्धतत्त्वागमः ॥31॥

कमण्डलुमृगाजिनाक्षवलयादिभिर्ब्रह्मणःशुचित्वविरहादिदोषकलुषत्वमभ्यूह्यते ।भयं विघृणता च विष्णुहरयोः सशस्त्रत्वतःस्वतो न रमणीयता च परिमूढता भूषणात् ॥32॥

स्वयं सृजति चेत्प्रजाः किमिति दैत्यविध्वंसनंसुदुष्टजननिग्रहार्थमिति चेदसृष्टिर्वरम् ।कृतात्मकरणीयकस्य जगतां कृतिर्निष्फलास्वभाव इति चेन्मृषा स हि सुदुष्ट एवाऽऽप्यते ॥33॥

प्रसन्नकुपितात्मनां नियमतो भवेदुःखितातथैव परिमोहिता भयमुपद्रतिश्चामयैः ।तृषाऽपि च बुभुक्षया च न च संसृतिश्छिद्यतेजिनेन्द्र ! भवतोऽपरेषु कथमाप्तता युज्यते ॥34॥

कथं स्वयमुपद्रुताः परसुखोदये कारणंस्वयं रिपुभयार्दिताश्च शरणं कथं बिभ्यताम् ।गतानुगतिकैरहो त्वदपरत्र भक्तैर्जनैःअनायतनसेवनं निरयहेतुरङ्गीकृतम् ॥35॥

सदा हननघातनाद्यनुमतिप्रवृत्तात्मनांप्रदुष्टचरितोदितेषु परिहृष्यतां देहिनाम् ।अवश्यमनुषज्यते दुरितबन्धनं तत्त्वतःशुभेऽपि परिनिश्चितस्त्रिविधबन्धहेतुर्भवेत् ॥36॥

विमोक्षसुखचैत्यदानपरिपूजनाद्यात्मिकाःक्रिया बहुविधासुभृन्मरणपीडनाहेतवः ।त्वया ज्वलितकेवलेन न हि देशिताः किं नु ताःत्वयि प्रसृतभक्तिभिः स्वयमनुष्ठिताः श्रावकैः ॥37॥

त्वया त्वदुपदेशकारिपुरुषेण वा केनचित्कथञ्चिदुपदिश्यते स्म जिन ! चैत्यदानक्रिया ।अनाशकविधिश्च केशपरिलुञ्चनं चाऽथवाश्रुतादनिधनात्मकादधिगतं प्रमाणान्तरात् ॥38॥

न चासुपरिपीडिनं नियमतोऽशुभायेष्यतेत्वया न च शुभाय वा न हि च सर्वथा सत्यवाक् ।न चाऽपि दमदानयोः कुशलहेतुतैकान्ततोविचित्रनयभङ्गजालगहनं त्वदीयं मतम् ॥39॥

त्वयाऽपि सुखजीवनार्थमिह शासनं चेत्कृतंकथं सकलसंग्रहत्यजनशासिता युज्यते ।तथा निरशनार्द्ध-भुक्तिरसवर्जनाद्युक्तिभि-जितेन्द्रियतया त्वमेव जिन इत्यभिख्यां गतः ॥40॥

जिनेश्वर ! न ते मतं पटकवस्त्रपात्रग्रहोविमृश्य सुखकारणं स्वयमशक्तकैः कल्पितः ।अथायमपि सत्पथस्तव भवेद्यथा नग्नतान हस्तसुलभे फले सति तरुः समारुह्यते ॥41॥

परिग्रहवतां सतां भयमवश्यमापद्यतेप्रकोपपरिहिंसने च परुषानृतव्याहृती ।ममत्वमथ चोरतो स्वमनसश्च विभ्रान्तताकुतो हि कलुषात्मनां परमशुक्लसद्-ध्यानता ॥42॥

स्वभाजनगतेषु पेयपरिभोज्यवस्तुष्वमीयदा प्रतिनिरीक्षतास्तनुभृतः सुसूक्ष्मात्मिकाः ।तदा क्वचिदपोज्झने मरणमेव तेषां भवे-दथाऽप्यभिनिरोधनं बहुतरात्मसंमूर्च्छनम् ॥43॥

दिगम्बरतया स्थिताः स्वभुजभोजिनो ये सदाप्रमादरहिताशयाः प्रचुरजीवहत्यामपि ।न बन्धफलभागिनस्त इति गम्यते येन तेप्रवृत्तमनुबिभ्रति स्वबलयोग्यमद्याप्यमी ॥44॥

यथागमविहारिणामशनपानभक्ष्यादिषुप्रयत्नपरचेतसामविकलेन्द्रियालोकिनाम् ।कथञ्चिदसुपीडनाद्यदि भवेदपुण्योदय-स्तपोऽपि वध एव ते स्वपरजीवसंतापनात् ॥45॥

मरुज्ज्वलनभूपयःसु नियमाक्वचिद्युज्यतेपरस्परविरोधितेषु विगतासुता सर्वदा ।प्रमादजनितागसां क्वचिदपोहनं स्वागमात्कथं स्थितिभुजां सतां गगनवाससां दोषिता ॥46॥

परैरनघनिर्वृतिः स्वगुणतत्त्वविध्वंसनंव्यघोषि कपिलादिभिश्च पुरुषार्थविभ्रंशनम् ।त्वया सुमृदितैनसा ज्वलितकेवलौघश्रियाध्रुवं निरुपमात्मकं सुखमनन्तमव्याहतम् ॥47॥

निरन्वयविनश्वरी जगति मुक्तिरिष्टा परैःन कश्चिदिह चेष्टते स्वव्यसनाय मूढेतरः ।त्वयाऽनुगुणसंहतेरतिशयोपलब्ध्यात्मिका ।स्थितिः शिवमयी प्रवचने तव ख्यापिता ॥48॥

इत्यपि गुणस्तुतिः परमनिवृतेः साधनीभवत्यलमतो जनो व्यवसितश्च तत्काङ्क्षया ।विरस्यति च साधुना रुचिरलोभलाभे सतांमनोऽभिलषिताप्तिरेव ननु प्रयासावधिः ॥49॥

(मालिनी)इति मम मतिवृत्या संहतिं त्वद्गुणाना-मनिशममितशक्तिं संस्तुवानस्य भक्त्या ।सुखमनघमनन्तं स्वात्मसंस्थं महात्मन् ।जिन ! भवतु महत्या केवल श्रीविभूत्या ॥50॥

0:00
0:00